Resources
Pricing
Create a Storyboard
My Storyboards
Search
Mahek Doshi X-C Roll No:3 SANSKRIT PROJECT [COMIC STRIPS]
Create a Storyboard
Copy this Storyboard
PLAY SLIDESHOW
READ TO ME
CREATE A STORYBOARD!
Copy
Create your own
Storyboard
Try it for
Free!
Create your own
Storyboard
Try it for
Free!
Storyboard Text
पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। 'निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा', एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः । करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौर: गृहाभ्यन्तरं प्रविष्ट: । तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत । चौरः एव उच्चैः क्रोशितुमारभत "चौरोऽयं चौरोऽयम्" इति । तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्
विचित्रः साक्षी
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् । तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेश दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत् । एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः । परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।
विचित्रा दैवगतिः
यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्
अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
आदेशं प्राप्य उभौ प्राचलताम् । तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः । भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्।
ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् । अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते । आदिश्यतां किं करणीयमिति । न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।
न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् । अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ ।
स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच -रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे" इति प्रोच्य उच्चैः अहसत् । यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ ।
नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते ||
ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षात्रयस्य कारादण्डं लप्स्यसे' इति । न्यायाधीश: आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान् । अतएवोच्यते - दुष्कराण्यपि कर्माणि मतिवैभवशालिनः ।
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः
MAHEK N DOSHIX-C ROLL NO:3
Over 30 Million
Storyboards Created